Read More
आकाशस्य स्थितिर्यावद् यावच्च जगतः स्थितिः। तावन्मम स्थितिर्भूयाज् जगद् दुःखानि निघ्नतः ॥
सं ग॑च्छस्व पि॒तृभिः॒ सं य॒मेने॑ष्टापू॒र्तेन॑ पर॒मे व्यो॑मन् । हि॒त्वाया॑व॒द्यं पुन॒रस्त॒मेहि॒ सं ग॑च्छस्व त॒न्वा॑ सु॒वर्चाः॑ ॥
मार्तण्डमण्डलश्रीविडम्बिभामण्डलं विभोः परितः। आविर्भवत्यनुवपुः प्रकाशयत्सर्वतो ऽपि दिशः॥
इदमन्धंतमः कृत्स्नं जायेत भुवनत्रयम् । यदि शब्दाह्वयं ज्योतिरासंसारं न दीप्यते ॥
གལ་ཏེ་ སྒྲས་ཐོད་ སྣང་བ་ཡིས །་ འཁོར་བ་ གསལ་བར་མ་བྱས་ན་། འཇིག་རྟེན་གསུམ་པོ་ མཐའ་དག་ འདི ། སྨག་རུམ་མུན་པ་ཉིད་དུ་འགྲུང །།